Stotra - स्तोत्र

भक्तामर स्तोत्र (संस्कृत)

भक्तामर स्तोत्र

परिचय

यह सुप्रसिद्ध स्तोत्र है। कुद्ध नृपति द्वारा आचार्य मानतुङ्ग को बलपूर्वक पकड़वा कर ४८ तालों के अन्दर बन्द करवा दिया गया था। उस समय धर्म की रक्षा और प्रभावना हेतु आचार्य श्री ने भगवान आदिनाथ की इस स्तुति की रचना की थी जिससे ४८ ताले स्वयं टूट गये थे और राजा ने क्षमा मांगकर उनके प्रति बड़ी भक्ति प्रदर्शित की थी। भक्तामर का प्रतिदिन पाठ समस्त विघ्न बाधाओं का नाशक और सब प्रकार मंगलकारक माना जाता है। इसका प्रत्येक श्लोक मंत्र मानकर उसकी आराधना भी की जाती है। इसकी अधिक जानकारी के लिए गजेन्द्र पब्लिकेशन से प्रकाशित ‘भक्तामर रहस्य’ देखें।

भक्तामरस्तोत्रम्

(श्री मानतुङ्गाचार्य)

भक्तामर-प्रणत-मौलि-मणि-प्रभाणा-

मुद्योतकं दलित-पाप-तमो-वितानम् ।

सम्यक्-प्रणम्य जिन-पाद-युगं युगादा-

वालम्बनं भव-जले पततां जनानाम् ।।१।।

यः संस्तुतः सकल-वाङ्मय-तत्त्व-बोधा-

दुद्भूत-बुद्धि-पटुभि सुर-लोकनाथैः ।

स्तोत्रैर्जगत्त्रितय – चित्त – हरैरुदारैः

स्तोष्ये किलाहमपि तं प्रथमं जिनेन्द्रम् ।।२।।

बुद्ध्या विनापि विबुधार्चित-पाद-पीठ

स्तोतुं समुद्यत-मतिर्विगत-त्रपोऽहम् ।

बालं विहाय जल-संस्थितमिन्दु-बिम्ब-

मन्यः क इच्छति जनः सहसा ग्रहीतुम् ।।३।।

वक्तुं गुणान्गुण-समुद्र शशाङ्क-कान्तान्

कस्ते क्षमः सुर-गुरु-प्रतिमोऽपि बुद्धया ।

कल्पान्त-काल-पवनोद्धत-नक्र-चक्रं

को वा तरीतुमलमम्बुनिधिं भुजाभ्याम् ।।४।।

सोऽहं तथापि तव भक्ति-वशान्मुनीश

कतु स्तवं विगत-शक्तिरपि प्रवृत्तः ।

प्रीत्यात्म-वीर्यमविचार्य मृगो मृगेन्द्रं

नाभ्येति किं निज-शिशोः परिपालनार्थम् ।।५।।

अल्प-श्रुतं श्रुतवतां परिहास-धाम

त्वद्भक्तिरेव मुखरीकुरुते बलान्माम्

यत्कोकिलः किल मधौ मधुरं विरौति

तच्चारु- चाम्र-कलिका-निकरैक-हेतु ।।६।।

त्वत्संस्तवेन भव-सन्तति-सन्निबद्ध

पापं क्षणात्क्षयमुपैति शरीरभाजाम् ।

आक्रान्त-लोकमलि-नीलमशेषमाश

सूर्याशु-भिन्नमिव शार्वर-मन्धकारम् ।।७।।

मत्त्वेति नाथ तव संस्तवनं मयेद-

मारभ्यते तनु-धियापि तव प्रभावात् ।

चेतो हरिष्यति सतां नलिनी-दलेषु

मुक्ता-फलद्युतिमुपैति ननूद-बिन्दुः ।।८।।

आस्तां तव स्तवनमस्त-समस्त-दोषं

त्वत्संकथापि जगतां दुरितानि हन्ति ।

दूरे सहस्त्रकिरणः कुरुते प्रभैव

प‌द्माकरेषु जलजानि विकासभाञ्जि ।।९।।

नात्यद्भुतं भुवन-भूषण भूत-नाथ

भूतैर्गुणैर्भुवि भवन्तमभिष्टुवन्तः

तुल्या भवन्ति भवतो ननु तेन किं वा

भूत्याश्रितं य इह नात्मसमं करोति ।।१०।।

दृष्ट्वा भवन्त-मनिमेष-विलोकनीयं

नान्यत्र तोषमुपयाति जनस्य चक्षु ।

पीत्वा पयः शशिकर-द्युति-दुग्ध-सिन्धोः

क्षारं जलं जल-निधे-रसितुं क इच्छेत् ।।११।।

यैः शान्त-राग-रुचिभिः परमाणुभिस्त्वं

निर्मापितस्त्रिभुवनैक – ललाम – भूत

तावन्त एव खलु तेऽप्यणवः पृथिव्यां

यत्ते समानमपरं न ही रूपमस्ति ।।१२।।

वक्त्रं क्व ते सुर-नरोरग-नेत्र-हारि

निःशेष निर्जित-जगत्त्रित-योपमानम् ।

बिम्बं कलङ्क-मलिनं क्व निशाकरस्य

यद्वासरे भवति पाण्डु-पलाश कल्पम् । । १३ ।।

सम्पूर्ण-मण्डल-शशाङ्क-कला-कलाप-

शुभ्रा गुणास्त्रिभुवनं तब लंङ्घयन्ति ।

ये संश्रितास्त्रिजगदीश्वर-नाथमे कं

कस्तान्निवारयति संचरतो यथेष्टम् ।।१४।।

चित्रं किमत्र यदि ते त्रिदशाङ्गनाभि-

र्नीतं मनागपि मनो न विकार-मार्गम् ।

कल्पान्त-काल-मरुता चलिताचलेन

किं मन्दराद्रि-शिखरं चलितं कदाचित् ।।१५।।

निर्धूम-वर्ति रपवर्जित-तैल-पूरः

कृत्स्नं जगत्त्रयमिदं प्रकटी-करोषि ।

गम्यो न जातु मरुतां चलिताचलानां

दीपोऽपरस्त्वमसि नाथ जगत्प्रकाशः ।। १६ ।।

नास्तं कदाचिदुपयासि न राहु-गम्यः

स्पष्टीकरोषि सहसा युगपज्जगन्ति ।

नाम्भोधरोदर-निरुद्ध-महा-प्रभावः

सूर्यातिशायि-महिमासि मुनीन्द्र लोके ।।१७।।

नित्योदयं दलित-मोह-महान्धकारं

गम्यं न राहु-वदनस्य न वारिदानाम् ।

विभ्राजते तव मुखाब्ज-मनल्पकान्ति

विद्योतयज्जगदपूर्व-शशाङ्क-बिम्बम् ।।१८।।

किं शर्वरीषु शशिनाहिन विवस्वता वा

युष्मन्मुखेन्दु-दलितेषु तमःसु नाथ।

निष्पन्न-शालि-वन-शालिनि जीव-लोके

कार्य कियज्जल-धरैर्जल-भार-नमैः ।।१९।।

ज्ञानं यथा त्वयि विभाति कृतावकाशं

नैवं तथा हरि-हरादिषु नायकेषु ।

तेजःस्फुरन्मणिषु याति यथा महत्त्वं

नैवं तु कांच-शकले किरणाकुलेऽपि ।।२०।।

मन्ये वरं हरि-हरादय एव दृष्टा

दृष्टेषु येषु हृदयं त्वयि तोषमेति ।

किं वीक्षितेन भवता भुवि येन नान्यः

कश्चिन्मनो हरति नाथ भवान्तरेऽपि ।।२१।।

स्त्रीणां शतानि शतशो जनयन्ति पुत्रान्

नान्या सुतं त्वदुपमं जननी प्रसूता ।

सर्वा दिशो दघति भानि सहस्त्र-रश्मि

प्राच्येव दिग्जनयति स्फुरदंशुजालम् ।।२२।।

त्वामामनन्ति मुनयः परमं पुमांस-

मादित्य-वर्णममलं तमसः पुरस्तात् ।

त्वामेव सम्यगुपलभ्य जयन्ति मृत्युं

नान्यः शिवः शिवपदस्य मुनीन्द्र पन्थाः ।।२३।।

त्वामव्ययं विभुमचिन्त्य-मसंख्यमाद्यं

ब्रह्माण-मीश्वर-मनन्त-मनङ्गकेतुम् ।

योगीश्वरं विदित – योगमनेकमेकं

ज्ञान-स्वरूप-ममलं प्रवदन्ति सन्तः ।।२४।।

बुद्धस्त्वमेव विबुधार्चित-बुद्धि-बोधात्

त्वं शङ्करोऽसि भुवन-त्रय-शङ्करत्वात् ।

धातासि धीर शिव-मार्ग विधेर्विधानात्

व्यक्तं त्वमेव भगवन्पुरुषोत्तमोऽसि ।।२५।।

तुभ्यं नमस्त्रि-भुवनार्ति-हराय नाथ

तुभ्यं नमः क्षिति-तलामल-भूषणाय ।

तुभ्यं नमस्त्रि-जगतः परमेश्वराय

तुभ्यं नमो जिन भवोदधि-शोषणाय ।।२६।।

को विस्मयोऽत्र यदि नाम गुणैरशेषै-

स्त्वं संश्रितो निरवकाशतया मुनीश ।

दोषै रुपात्त-विविधाश्रय-जात-गर्दै :

स्वप्नान्तरेऽपि न कदाचिद-पीक्षितोऽसि ।।२७।।

उच्चैरशोक-तरु-संश्रितमुन्मयूख-

माभाति रूपममलं भवतो नितान्तम् ।

स्पष्टोल्लसत्किरणमस्त-तमो-वितानं

बिम्बं रवेरिव पयोधर-पाश्र्ववर्ति ।।२८।।

सिंहासने मणि-मयूख-शिखा-विचित्रे

विभ्राजते तव वपुः कनकावदातम् ।

बिम्बं वियद्विलसदंशुलता-वितानं

तुङ्गोदयाद्रि-शिरसीव सहस्त्र-रश्मेः ।।२९।।

कुन्दावदात-चल-चामर-चारु-शोभं

विभ्राजते तव वपुः कलधौत-कान्तम् ।

उद्यच्छशांक-शुचि-निर्झर-वारि-धार-

मुच्चैस्तटं सुरगिरेरिव शातकौम्भम् ।।३०।।

छत्र-त्रयं तव विभाति शशांक-कान्त-

मुच्चैः स्थितं स्थगित-भानु-कर-प्रतापम् ।

मुक्ता-फल-प्रकर-जाल-विवृद्धशोभं

प्रख्यापयत्त्रिजगतः परमेश्वरत्वम् ।।३१।।

गम्भीर-तार-रव-पूरित-दिग्विभाग-

स्त्रैलोक्य-लोक-शुभ-सङ्गम-भूति-दक्षः ।

सद्धर्मराज-जय-घोषण-घोषकः सन्

खे दुन्दुभिर्ध्वनति ते यशसः प्रवादी ।।३२।।

मन्दार-सुन्दर-नमेरु-सुपरिजात-

सन्तानकादि-कुसुमोत्कर-वृष्टि-रुद्धा ।

गन्धोद-बिन्दु-शुभ-मन्द-मरुत्प्रपाता

दिव्या दिवः पतति ते वचसां ततिर्वा ।।३३।।

शुम्भत्प्रभा-वलय-भूरि-विभा विभोस्ते

लोकत्रये द्युतिमतां द्युतिमाक्षिपन्ति ।

प्रोद्यद्दिवाकर-निरन्तर-भूरि-संख्या

दीप्त्या जयत्यपि निशामपि सोम-सौम्याम् ।।३४।।

स्वर्गापवर्ग-गम-मार्ग-विमार्गणेष्ट

सद्धर्म-तत्त्व-कथनैक-पटुस्त्रिलोक्याः ।

दिव्य-ध्वनिर्भवति ते विशदार्थ-सर्व-

भाषा-स्वभाव-परिणाम-गुणैः-प्रयोज्यः ।।३५।।

उन्निद्र-हेम-नव-पंकज-पुंज-कान्ती

पर्युल्लसन्नख-मयूख-शिखाभिरामौ ।

पादौ पदानि तव यत्र जिनेन्द्र धत्तः

प‌द्मानि तत्र विबुधाः परिकल्पयन्ति ।।३६।।

इत्थं यथा तव विभूतिरभूज्जिनेन्द्र

धर्मोपदेशन-विधौ-न तथा परस्य ।

यादृक्प्रभा दिनक्तः प्रहतान्धकारा

तादृक्कुतो ग्रह-गणस्य विकाशिनोऽपि ।।३७।।

श्च्योतन्मदाविल-विलोल-कपोल-मूल-

मत्त-भ्रमद्-भ्रमर-नाद-विवृद्ध-कोपम् ।

ऐरावताभमिभ-मुद्धतमापतन्तं

दृष्ट्वा भयं भवति नो भवदाश्रितानाम् ।।३८।।

भिन्नेभ-कुम्भ-गलदुज्ज्वल-शोणिताक्त-

मुक्ता-फल-प्रकर-भूषित-भूमि-भागः ।

बद्ध-क्रमः क्रम-गतं हरिणाधिपोऽपि

नाक्रामति क्रम-युगाचल-संश्रितं ते ।।३९।।

कल्पान्त-काल-पवनोद्धत-वहिन-कल्पं

दावानलं ज्वलित-मुज्जवल-मुत्स्फुलिङ्गम् ।

विश्वं जिधित्सुमिव संमुखमापतन्तं

त्वन्नाम-कीर्तन-जलं शमयत्यशेषम् ।।४०।।

रक्तक्षेणं समद-कोकिल-कण्ठ-नीलं

क्रोधोद्धतं फणिन-मुत्फणमापतन्तम् ।

आक्रामति क्रम-युगेण निरस्त-शंक-

स्त्वन्नाम-नाग-दमनी हृदि यस्य पुंसः ।।४१।।

वल्गत्तु रङ्ग-गज-गर्जित-भीमनाद-

माजौ बलं बलवतामपि भूपतीनाम् ।

उद्यद्दिवाकर-मयूख-शिखा-पविद्धं

त्वत्कीर्तनात्तम इवाशु भिदामुपैति ।।४२।।

कुन्ताग्र-भिन्न-गज-शोणित-वारिवाह-

वे गावतार-तरणातुर-योध-भीमे ।

युद्धे जयं विजित-दुर्जय-जेय-पक्षा-

स्त्वत्पाद-पंकज-वनाश्रयिणो लभन्ते ।।४३।।

अम्भोनिधौ क्षुभित-भीषण-नक्र-चक्र-

पाठीन-पीठ-भय-दोल्वण-वाडवाग्नौ ।

रङ्गत्तरङ्ग-शिखर-स्थित-यान-पात्रा-

स्त्रास विहाय भवतः स्मरणाद् व्रजन्ति ।।४४।।

उद्भूत-भीषण-जलोदर-भार-भुग्नाः

शोच्यां दशामुप-गताश्च्युत-जीविताशाः ।

त्वत्पाद-पंकज-रजो मृत-दिग्ध-देहा

मर्त्या भवन्ति मकरध्वज-तुल्यरूपाः ।।४५।।

आपाद-कण्ठमुरु-शृंखल-वेष्टिताङ्गा

गाढं वृहन्निगड़-कोटि-निघृष्ट-ज‌ङ्घाः ।

त्वन्नाम-मन्त्रमनिशं मनुजाः स्मरन्तः

सद्यः स्वयं विगत-बन्ध-भया भवन्ति ।।४६।।

मत्तद्विपेन्द्र – मृगराज-दवानलाहि-

स‌ङ्ग्राम वारिधि-महोदर-बन्धनोत्थम् ।

तस्याशु नाशमुपयाति भयं भियेव

यस्तावकं स्तवमिमं मतिमानधीते ।।४७।।

स्तोत्रस्रजं तव जिनेन्द्र गुणैर्निबद्धां

भक्त्या मया रुचिर-वर्ण-विचित्र-पुष्पाम् ।

धत्ते जनो य इह कण्ठ-गतामजस्त्रं

तं ‘मानतुङ्ग’मवशा समुपैति लक्ष्मीः ।।४८।।

Leave a Reply

Your email address will not be published. Required fields are marked *